Wednesday, February 17, 2010

Subrahmanyam P V B., paper on panchang calculation

i read my research paper on time reckoning (panchang). the paper was in sanskrit. I post the same here for your comments.

it is for discussion purpose only and the same is not a publication as it has already been read in the conference at Nagapur. I accept the comments just as to keep the research going on.

thank you

the paper starts here...
कालगणनाविमर्शः
डा.पी.वी.बी.सुब्रह्मण्यम्
सहायकाचार्यः,
राष्ट्रियसंस्कृतसंस्थानम्, भोपालपरिसरः
उद्देश्यम्
यज्ञकर्मप्रवर्तकः वेदः। यज्ञः कालाश्रितः। सः कालः ग्रहभैरनुमीयते क्षेत्रे। क्षेत्रं नाम द्वादशराश्यंकितम्, सप्तविंशतिनक्षत्रविभक्तं च क्षेत्रवृत्तम्। तस्मिन् क्षेत्रे कालस्यानुमानं तावत् ज्योतींषि अधिकृत्य क्रियते। अतोस्य कालगणनातन्त्रस्य ज्यौतिषमिति नाम प्रसिद्धं लोके। तथानुमितकालः पञ्चाङ्गनाम्ना संरक्ष्यते। पञ्चाङ्गगणनायां अद्य अनेके भेदाः दृश्यन्ते। तेषु सूर्यसिद्धान्तसम्मतः तिथ्यादिकालः अनुसरणीयः, अयनशून्यकालाधारितग्रहगणना साधुतरा इति प्रदर्शयन् तेषामेव भेदानामवलोकनं विचारः विमर्शश्च अत्र प्रस्तूयते।
परिचयः
कालः अनादिरनन्तश्च। तस्यानुमानमात्रमेवास्माभिः कर्तुं शक्यते। तदर्थमेवास्माभिः नियमितनियमैः परिभ्रमन्तानां ज्योतिष्पिण्डानां स्थित्या क्षेत्रसंज्ञके दृग्वृत्ते अनुमीयतेऽयं कालः।[1] अमुमर्थमेव सूर्यसिद्धान्तोऽपि समर्धयति यत्र कालस्य द्वैविध्यं वर्णितम्। लोकान्तकृतकलनात्मकाभ्यां भेदाभ्यां सः कालः द्विविधः। कलनात्मककालोपि मूर्तामूर्तभेदेन द्विधा भवति।[2] ग्रहभैरुत्पन्नः कालः खगोलस्थित्या यद्यपि एक एव तथापि स्थानवैमत्यात् स्थानिककालः भिन्नथा भवति। अतः कलनात्मककालोपि स्थानभेदात् भिन्नो भवति गर्भीयपृष्ठीयभेदाभ्याम्। पृष्ठीयकालः प्रादेशिकः गर्भीयश्च सार्वदेशिको भवति। व्यवहारे पृष्ठीयः न स्वीक्रियते। ग्रहच्छायादीनां ज्ञानमात्रमेव पृष्ठीयग्रहेभ्यो भवति। अस्मद्देशे तिथिनक्षत्रादिव्यवहारे गर्भीयकालस्य एव व्यवहारः क्रियते। अस्य प्रधानं कारणं तेषां ग्रहाणां स्थानवशादुत्पद्यमानं लम्बनमेव। तिथ्यादिगणनायां लम्बनसंस्कारे विहिते सति काले सारूप्याभावो भवति। तेन कालगमने कालस्य वैपरीत्यं, वेदोद्दिष्टकर्मणां फलाभावश्च उत्पद्येत। अतः लम्बनादिसंस्कारान् विहायैव सूर्याचन्द्रमसाभ्यां तिथ्यादिरूपकालस्य गणना क्रियते। एवमेव सम्पातस्य चलनवशात् स्थिराश्विन्यादिसम्पातबिन्द्वोर्मध्ये कालगमने अन्तरं समजनि। तस्यैवान्तरस्य अयनांश इति व्यवहारः। ग्रहक्रान्तिग्रहच्छायाचरदलादयः सम्पाताभिप्रायकाः भवन्ति। साधितग्रहस्तावद् स्थिरमेषादितो भवति। अतः क्रान्तिच्छायाचरदलादयः अयनांशसंस्कृतग्रहादेव साध्येरन्।[3] अतस्तस्य अयनांशस्यापि ज्ञानमनिवार्यतया अपेक्षते।
गणनाभेदाः
आर्यभटः प्रथमपौरुषसिद्धान्तज्योतिषग्रन्थकारो वर्तते। तस्मिन्नेवसमये आचार्यवराहोपि आसीत्। तेषामनन्तरकाले आचार्यब्रह्मगुप्तो भभूव। ग्रहगणनायां त्रयानां भिन्नमतानामेते प्रवर्तकाः वर्तन्ते। आर्यभटमतानुयायिनः आर्यसिद्धान्तीयाः कथ्यन्ते। एवमेव सूर्यसिद्धान्तपक्षः, ब्रह्मसिद्धान्तपक्षश्च। यद्यपि वराहब्रह्मगुप्तौ सूर्यब्रह्मपक्षप्रवर्तकौ न विद्येते तथापि एतयोः कार्यवशादेव अनयोः पक्षयोः प्राधान्यं समभूत्। वर्तमानकाले यः सूर्यसिद्धान्तः सः वराहोक्तसूर्यसिद्धान्ताद्भिन्नः। अपिच अपरश्च सूर्यसिद्धान्तः भटोत्पलेन संहिताविवृतौ चर्चितः सोपि भिन्नः वर्तते। तथापि मन्यते यत सिद्धान्तस्यास्य प्रवर्धितरूपमेवाद्य दृश्यत इति।
लल्ल-वटेश्वर- श्रिषेण- भास्कराचार्य- लाटदेव- मुञ्जालादयो बहवः सिद्धान्तविशारदाः आर्यसूर्यब्रह्मेषु कमपि एकं पक्षमवलम्ब्य स्वकीयसिद्धान्तग्रन्थान् रचयामासुः। पक्षत्रयस्यापि व्यवहारोपि नैकेषु स्थानेषु परम्परया दृश्यते। पञ्चाङ्गा अपि तथाविधाः दृश्यन्ते।
आचार्य बापूदेवशास्त्रिभिः अपरा एका परम्परा भारते प्रवर्तिता वर्तते। सैव दृग्सिद्धान्तनाम्ना प्रसिद्धोस्ति। अधुना आर्य-सूर्य-ब्रह्मविवादो कुत्रापि न दृश्यते। तेषामेव समयात् परम्परादृगितिभेदाभ्यां नूतनो विवादः बहुव्याप्ता दृश्यते। एतस्मात् विवादवशात् पञ्चाङ्गानामधुना दयनीया स्थितिः अनुभूयते।
अपरः विवादः अयनांशसंज्ञकः। विगतशतवर्षेषु अयं विवादः दिनदिनप्रवर्धमाना अधुना क्लिष्टतरः सञ्जातः। वर्तमाने दशाधिकाः अयनप्रमाणाः व्यवहारे दरीदृश्यन्ते। तस्य सम्पातराशिचक्रारम्भबिन्द्वोः अन्तरात्मकस्य अयनांशाभिधस्य गणनापद्धतय अपि अनेकथा प्राप्यन्ते। तेषु रैवतपक्षगणनापद्धतिः, चित्रापक्षगणनापद्धतिः, छायार्ककरणार्कान्तरपक्षगणनापद्धतिः, शून्यायनकालपक्षगणनापद्धतिरिति चतस्रः प्रचलने अनुभूयन्ते।
विमर्शः
अस्माकं कालगणनाविधिः प्राचीना सर्वगुणसम्पन्ना वैज्ञानिकी च। भुवं परितः दृश्यमानस्य आकाशस्य अनुभूतिः चतुर्दिक्षु वृत्ताकारा भवति अक्ष्णोः निश्चितदृष्टिवशात्। भुवः अभिप्रायेणापि ते ग्रहाः वृत्ताकारमार्ग एव भ्रमन् उपलक्ष्यन्ते। तस्मिन् पथि तेषां गमनवशात् भूकेन्द्रे उत्पद्यमानकोणमेव तेषां गतिरित्यभिधीयते। तद्गतिवशादेव सर्वमपि कर्म संपाद्यते कालसाधने। भूमेरभिप्रायेण वृत्ताकरकक्षासु भ्रमन्निव लक्षन्तोऽपि ग्रहाः स्ववर्त्मासु अधोऽधः क्रमेण उच्चपातादिभिः संचालिताः दीर्घवृत्ताकारकक्षासु भ्रमन्त इति कृत्वा तान् कक्षावृत्ते स्पष्टीकर्तुं फलसंस्कारो विधीयते।[4] अर्थादस्माभिः अनादिकालादेव या ग्रहगतिरनुमीयते तदाधुनिकविज्ञानसम्मतमेवेति स्पष्टम्।
सूर्याचन्द्रमसोः द्वादशांशानामन्तरे एका तिथिः जायते। गर्भीयसूर्याचन्द्रमसाभ्यां साधिता तिथिः देशान्तरसंस्कारवशात् प्रादेशिकी भवति। किन्तु तौ तस्मिन् स्थाने दृगुपलब्धौ न भवतः लम्बनवशात्। तथापि तस्या एव तिथेः प्रयोगः उचितः। यदि प्रतिदेशं पृथक्तया लम्बनसंस्कृतग्रहानानीय तिथ्यादयो यदि गण्यन्ते तर्हि प्रतिप्रदेशं तद्द्वादशांशात्मकान्तरं भिन्न भिन्न समये भवति। इदं तावत् तिथेः मौळिकपरिभाषाविरुद्धं भवति। आकाशस्थ सूर्याचन्द्रमसोः द्वादशांशात्मकान्तरं एककाले भवति यतः सूर्य एकः चन्द्रश्च एक एव। तर्हि तयोरन्तरं भिन्नथा कथं भवितुमर्हति? अतः एकस्यैवान्तरस्य सर्वत्र प्रयोगः साधुरिति स्पष्टम्। स्थानिककालसंस्कारमात्रमेव तत्र अपेक्षते।
ये दृग्गणितमिति वदन्ति तैरपि ग्रहेषु लम्बनसंस्कारो न विधीयते। यावता कालेन ग्रहे लम्बनसंस्कारो न विधीयते तावता स ग्रहः दृगुपलब्धो न भवति। यावता दृगुपलब्धो न भवति तावत्पर्यन्तं तेनानीततिथिरपि दृगुपलब्धा न भवति। अतः परम्परानुगुणं तिथ्यादीनां व्यवहार एव करणीयमिति स्पष्टम्।[5] वेदाङ्गेषु ज्योतिषे एव समये समये परिवर्तनपरिवर्धनादिकं भवति। अस्मद्विज्ञानगुणसम्पन्नैः आचार्यैः तत्र संशोधनादिकं अनवरतं कृतम्। [6] तैः संशोधनैः अद्य सूर्यसिद्धान्तस्य परिमार्जितं रूपमस्माभिः दृश्यते। [7]
आचार्यवराहमिहिरकाले सवितृसिद्धान्तः स्पष्टतरः आसीत्।[8] वराहमिहिराचार्यकृत ग्रन्थानां कृते संस्कृते भाष्यं लिखितमाचार्य भटोत्पलैः। एते आचार्यवराहानन्तरं चतुश्शतवर्षाभ्यन्तरकालिक एव। तैः उत्पलाचार्यैः कानिचन सूर्यसिद्धान्तवचनानि स्वभाष्ये उद्धृतानि सन्ति। किन्तु तानि वचनानि आचार्य वराहेनसंग्रहीतसूर्यसिद्धान्ते न दृश्यन्ते। वर्तमानप्रचलितसूर्यसिद्धान्तेपि तानि न दृश्यन्ते। अतः इदमनुमीयते यत् सूर्यसिद्धान्तवचनानुसारं[9] तत्र समये समये कालभेदानुरूपं परिवर्धनं क्रियत इति। स्पष्टाधिकारान्ते तिथ्यादिसाधनमुक्त्वा दृक्कर्मादिसंस्काराः अग्रे वर्णिताः सन्ति प्रायः सर्वेष्वपि सिद्धान्तग्रन्थेषु। अनेनापीदमवगम्यते यत् फलादिना संस्कृतैः ग्रहैरेव तिथ्यादयो गण्यन्त इति। अतः तिथ्यादयः सूर्यसिद्धान्तमार्गे संसाध्य क्रियमानपञ्चाङ्गनिर्माणं सर्वथा सर्वदा च परम्पराभिमतं भवतीति स्पष्टम्।
सिद्धान्तग्रन्थेषु योगताराधृवाः ये उक्तास्सन्ति ते भिद्यन्ते। अतस्तैः अयनांशः साध्यते तदा प्रत्येकैकं सिद्धान्तमनुसृत्य दशाधिकानि अयनांशमानानि प्राप्यन्ते। अतः स्पष्टनक्षत्रधृवाभावे यनांशसाधनं भवितुं नार्हति। रैवतचित्रापक्षयोः स्वीकृतिरनेन कारणेन भवितुमशक्यमिति स्पष्टं भवति। छायार्ककरणार्कान्तरपक्षः साधुरिति स्वीकर्तुं शक्यते किन्तु करणानां भिन्नत्वादिदमपि नाङ्गीक्रियते।
आचार्यवराहकाले अयनांशमानं शून्यमासीदिति आचार्यैः उक्तमस्ति। [10] तस्य दृगुपलब्धिः कथं भवितुमर्हति इत्यस्यापि वर्णनं तैरकारि।[11] अन्येभ्यः उक्तायनगतिप्रमानेभ्यः अपि वराहोक्तकालसमीपकाल एव प्राप्यते। अतः अयनशून्यकालमाश्रित्य नवीनायनगत्या अयनांशसाधनं वरमिति सोमयिजनां यन्मतं[12] वर्तते तदनुसरणयोग्यमिति वक्तुं शक्यते।
उपसंहारः
कालपुरुषाख्यमहार्णवस्य तरणं तथा सुलभं नास्ति। मन्त्रद्रष्टुभिः महर्षिभिः यल्लोककळ्याणकारकं शास्त्रं दृष्टं अनुभूतं च तदेवास्माकं पुरतः विद्यते। न तथा सक्षमाः वयं यदस्य विश्लेषादिकमकुर्वन्नेव किमपि भणितुमुद्युक्ताः भवामश्चेत् न तल्लोकहिताय । यावता तर्कसङ्गतं विज्ञानयुतं च नान्विष्टामस्तावत्कालपर्यन्तं ऋषिवचनानुसरणमेवास्माभिः करणीयं लोकहितपक्षे। परम्परागतकालसाधनस्य परम्परागतायनादीनामद्यापि विज्ञानदिशा तर्कसङ्गतिर्विद्यत इति ज्ञात्वा तथा भवितव्यम्।
***********


[1] . कालोऽयमनाद्यनन्तः ग्रहभैरनुमीयते क्षेत्रे। आर्यभटीयम्
[2] . लोकानामन्तकृत्कालः कालोऽन्यः कलनात्मकः।
स द्विधा स्थूलसूक्ष्मत्वात् मूर्तश्चामूर्त उच्यते।। सूर्यसिद्धान्तः
[3]. तत्संस्कृताद्ग्रहात्क्रान्ति च्छायाचरदलादिकम्।। सूर्यसिद्धान्तः।
[4]. भूमेर्मध्ये खलु भवलयस्यापि मध्यं यतः स्यात् यस्मिन् वृत्ते भ्रमति खचरो नास्य मध्यं कुमध्ये।
भूस्थो द्रष्टा नहि भवलये मध्यतुल्यं प्रपश्येत् तस्मात्तज्ञैः क्रियत इह तद्दोः फलं मध्यखेटे।। सि.शिरोमणिः
[5] . स्वभाषणे धूळिपाल अर्कसोमयाजि महोदयः। इदं भाषणं तावत् राजमहेन्द्रनगरे 1980 तमे वर्षे समायोजितायां पञ्चाङ्गपरिष्कारमार्गान्वेषनसभायां तैः प्रदत्तम्।
[6] . And in no branch of Sanskrit literature have changes been made so freely as in astronomical works. Not from unworthy motives; on the contrary, the Hindu astronomers were the only class of learned men their country who had an idea of science being progressive, not stationary or retrogressive”. Dr. Kern’s preface to Brihat Samhita
[7] . आचार्य गिरिजाप्रसाद द्विवेदी महोदयस्य शिरोमणि भूमिकातः, पृ. 21
[8] . पौलिशरोमकवाशिष्ठसौरपैतामहास्तु सिद्धान्ताः
पञ्चभ्यो द्वावाद्यौ व्याख्यातौ लाटदेवेन।।
पुलिशविहितः स्फुटोऽसौ तस्यासन्नस्तु रोमकः प्रोक्तः।
स्पष्टतरः सावित्रः परिशेषौ दूरविभ्रष्टौ।। पञ्चसिद्धान्तिका
[9] . शास्त्रमाद्यं तदेवेदं यत्पूर्वं प्राह भास्करः।
युगानां परिवर्तेन कालभेदोऽत्र केवलः।। सूर्यसिद्धान्तः
[10]. साम्प्रतमयनं रवेर्कर्कटकाद्यं मृगादितश्चान्यत्।
तदभावे विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः।। बृहत्संहिता
[11] . दूरस्थचिह्णवेधादुदयेऽस्तमयेपि वा सहस्रांशोः।
छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति।। बृहत्संहिता
[12] . it is worth – noting that taking the Ayana Sunya kala as 499 AD the accrued Ayanamsas will be nearly the same as the so called Raivata Paksa, which the late Ketkar advocated. Lokamanay Balagangadhar Tilak also adopted the same Ayanamsas. Reason requires therefore that these Ayanamsas calculated on the basis of the Ayana Sunyakala being 499AD and accepting the rate given by modern Astronomy should be adopted.” Excerpts from the speech of Dr. Arkasomayaji in the Jyotisha conference at Rajahmundry in 1980

national Sanskrit conference at Nagapur

I just came back from nagapur, attending the conference at kavikula guru kalidas sanskrit university. Delegates from all corners of the country attended the conference. it was a grand success and they organised the conference very well. The session of research paper reading is a remember-able one for me.

But I have some reservations also.

I do not know Marathi.

The inaugural ceremony of the the conference possessed 20% of Sanskrit, 75% Marathi and 5% Hindi. I was able to understand the Hindi and Sanskrit 100% and the Marathi 5%. It will be more better for us if we could have understood the Marathi as major portion of the program was watched as mooki(speechless movie) by us.

The last day is completely different for us.

We just spent the day as spectaculars in the programme as it completely covered by Marathi. We even not understood about the personalities who attended as guests and felicitated because their introduction was given in Marathi.

This visit is a grand success for me in respect of the paper presentation and remaining two days are, to say frankly, fruitless effort. I tried to understand the language but no one can understand any language from the day one.

Next time when I visit Maharastra I will learn the language first and then will roam there.

the people there very well know Hindi and Sanskrit(at the place of program) but they avoided it and left us to our fate. We felt insulted for sometime. We love all languages. We love to interact with people in their language of convenience.





Saturday, January 30, 2010

Astrology- A pseudo science?

Since last some years we are debating this issue. I feel we lose some links in this connection. We leave some fundamentals of the debate also. Often we are forced to utter our views rather than discussing any matter on its values and originality. This is very true in the matter of Indian predictive astrology. We always treat it as an individual subject. But it’s a part of a bigger subject which has its origin to the time immemorial to us.

At the first step we mistake the object or the meaning or the definition of the word/subject Jyotisham. This Jyotisham is called astrology by us. But we do not rethink the use of the word astrology for jyotish. To me, it’s not the suitable word for Jyotisham. Jyotisham itself is the name of a particular subject which cannot be changed with the change of the language. No study of celestial bodies is there. The study with the help of the celestial bodies is there. The properties of the celestial bodies are considered to evaluate the future etc. Is it proper to coin this word (astrology) for Jyotish. Or should we use Jyotisham as a noun which cannot be altered with the change of the language?

continues....

Wednesday, January 13, 2010

భోగి

మనము జరుపుకునే పండుగలలో ముఖ్యమైనది భోగి పండుగ. మన సంస్కృతికి వెన్నుముక్క పండుగలు. ఇవి సరదాలు అనుకునే కన్నా మానవమనుగడకు అవసరమయ్యే వాతావరణమును ఈ భూమిపై పొందుపరచి ఉంచుటకు మనవారు ఆవిష్కరించిన అద్భుతమైన జీవనసరళి అనడం ఎంతైనా సబబు. నేటి విజ్ఞానము కొత్తపుంతలు తొక్కుతున్న ఈ రోజులలో సంస్కృతిని ఆచార కూడా ఆ విజ్ఞానదృష్టితో వీక్షించడము దాని గొప్పతనమును తెలుసుకొనడము చాలా అవసరమని మేము భావిస్తున్నాము. అందులో భాగముగ భోగిపండుగపై మా దృష్టికోణమును మీముందుంచుచున్నాము.

సంక్రమణమనగా సూర్యుని రాశి ప్రవేశము. మకరములో ప్రవేశించిన నాటినుండి సూర్యోదయము జరుగు తూర్పు ఉత్తరమునకు జరగడము ప్రారంభమవుతుంది. అనగ భూమధ్యరేఖాప్రాంతపు నాడీరేఖనుండి సూర్యుని దూరము ధక్షిణదిశలో పెరగడము ఆగి ఆ సూర్యభ్రమణమార్గము ఉత్తరమువైపునకు జరుగుట ప్రారంభమవుతుంది. ఆ మకరసంక్రమణమునాడు సంక్రాంతి పంజుగ జరుపుకుంటాము. ఆ సంక్రాంతికి ముందురోజు జరుపుకునే వేడుకకే భోగి అని పేరు.

భోగి నాడు ముఖ్యముగా తలంచుపోసుకోవడము, ఆవు పిడకలతో చేసిన దండలను మంటలో వేయడము ఆనాదిగా ఆంధ్రదేశములో నడుస్తున్నది. అదే పంజాబు ప్రాంతమువారు కూడ మంట వేస్తారు గానీ భోగిదండల ఆచారము లేదు. వారు దీనిని లోరి అంటారు. బెంగాను ప్రాంతమువారు ఆ మంటలలో నువ్వులు వేస్తారు. ఇప్పుడు మనము చేయు పనుల ప్రాశస్త్యమును తెలుసుకుందాము.

ఆనాదిగా వస్తున్న ఆచారము యజ్ఞములు చేయడము. ఆ యజ్ఞములు వానికి చెప్పబడిన సమయములందు మాత్రమే చెయ్యవలెను. అగ్నిలో వేసిన ద్రవ్యమును అగ్ని ఇంద్రాది దేవతలవరకూ చేరుస్తాడు. కాబట్టి అగ్నిని హవ్యవాహనుడు అంటాము. అనగ అగ్ని ఆ హవిస్సతును దేవతలకు చేరవేయువాడు మాత్రమే గానీ తను అనుభవించడని దాని అర్థము. ఆ ఇంద్రాదులు ఎవరు? వారికే రూపములో ఈ హవిస్సు చేరుతుంది? దానిని వానికి చెప్పిన సమయములోనే ఎందుకు చెయ్యాలి? ఇలా చాలా ప్రశ్నలు పుడతాయి.

1. ఆ ఇంద్రాదులు ఎవరు?

ప్రకృతిలో మానవమనుగడకుపయోగించు విభిన్న తత్త్వములకే ఇంద్రుడు విష్ణువు మొదలగు పేరులను మనవారు ఏర్పరిచినారు. దీనిమీద విస్తృత చర్చ మనము భవిష్యత్తులో సందర్భానుసారము చేద్దాము.

2. వారికే రూపములో హవిస్సు చేరుతుంది? దానివలన ప్రయోజనమేమిటి?

అగ్నిలో వేయబడిన ద్రవ్యములచే ఏర్పడిన ఆవిరి మరియు ధూమము చుట్టూ ఉన్న వాతావరణమును జేరుతుంది. అగ్ని కారణముగా పొందిన వేడివలన ఆ ధూమము తేలికై వాతావరణపు పరిధులకు చేరుతుంది. భూమిచుట్టూ వాయువు (వాతము) యొక్క ఆవరణము ఎంతవరకూ ఉన్నదో ఆ ధూమముకూడా అంతవరకే చేరగలదు. ఆ పరిధిని దాటలేదు. ఈ తేలికపాటి ఆవిరి మరియు ధూమము అచటి సామాన్య మరియు సారూప్య వాయువుతో కలిసి మేఘములుగ ఏర్పడును. మరియు ఆ ధూమమునందు మేఘములను వర్షింపజేయు శక్తి ఉన్నది. భగవద్గీతయందు యజ్ఞమువలన వర్షము, వర్షము వలన అన్నము కలుగునని చెప్పిన భగవద్వచనమునకు అర్థము ఇదియే!